|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.270. अध्यायः 270
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति धर्मप्रशंसनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
कार्यते यच्च क्रियते सच्चासच्च कृताकृतम्।
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत्॥ 13-270-1(92182)
काल एवान्तराशक्तिर्निग्रहानुग्रहौ ददत्।
बुद्धिमाविश्य भूतानां धर्माधर्मौ प्रवर्तते॥ 13-270-2(92183)
यदा त्वस्य भवेद्बुद्धिर्धर्मार्थस्य प्रदर्शनात्।
तदाश्वसीत धर्मात्मा दृढबुद्धिर्न विश्वसेत्॥ 13-270-3(92184)
एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम्।
कालयुक्तोऽप्युभयविच्छेषं युक्तं समाचरेत्॥ 13-270-4(92185)
यथा ह्युपस्थितैश्वर्याः पूजयन्ति नरा जनान्।
एवमेवात्मनाऽऽत्मानं पूजयन्तीह धार्मिकाः॥ 13-270-5(92186)
`भावशुद्धिस्तु तपसा देवतानां च मूजया।
सनातनेन शुद्ध्या च श्रुतदानजपैरपि।
न ह्यशुद्धस्तु तां दद्याद्धर्मकाले कथञ्चन॥' 13-270-6(92187)
न ह्यधर्मतया धर्मं दद्यात्कालः कथञ्चन।
तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम्॥ 13-270-7(92188)
स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम्।
अधर्मः सन्ततो धर्मं कालेन परिरक्षितम्॥ 13-270-8(92189)
कार्यावेतौ हि धर्मोणि धर्मो हि विजयावहः।
त्रयाणामपि लोकानामालोकः कारणं भवेत्॥ 13-270-9(92190)
न तु कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम्।
ऊह्यमानस्तु धर्मेण प्राप्नुयात्परमच्युतम्।
विश्वास एव कर्तव्यो बहुधर्मे शुभच्छले॥ 13-270-10(92191)
शूद्रोऽहं नाधिकारो मे चातुराश्रम्यसेवने।
इति विज्ञानमपरे नात्मन्युपदधत्युत॥ 13-270-11(92192)
विशेषेण च वक्ष्यामि चातुर्वर्ण्यस्य लिङ्गतः।
पञ्चभूतशरीराणां सर्वेषां सदृशात्मनाम्॥ 13-270-12(92193)
लोकधर्मे च धर्मे च विशेषकरणं कृतम्।
यथैकत्वं पुनर्यान्ति प्राणिनस्तत्र विस्तरः॥ 13-270-13(92194)
अध्रुवो हि कथं लोकः स्मृतो धर्मः कथं ध्रुवः।
यत्र कालो ध्रुवस्तात तत्र धर्मः सनातनः॥ 13-270-14(92195)
सर्वेषां तुल्यदेहानां सर्वेषां सदृशात्मनाम्।
कालो धर्मेण संयुक्तः शेष एव स्वयं गुरुः॥ 13-270-15(92196)
एवं सति न दोषोऽस्ति भूतानां धर्मसेवने।
तिर्यग्योनावपि सतां लोक एव मतो गुरुः॥ ॥ 13-270-16(92197)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्यधिकद्विशततमोऽध्यायः॥ 270 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-270-2 प्रवर्तते प्रवर्तयति॥ 7-270-3 धर्मार्थस्य धर्मफलस्य प्रदर्शनात्। यदा धर्म एव श्रेयस्कर इति बुद्धिर्भवेत्तदायं धर्मात्मा धर्मचित्तः धर्मे आश्वसीत विश्वासं कुर्वीत। अदृढबुद्धिस्तु न विश्वसेत् धर्मफले॥ 7-270-4 एतावद्धर्मे विश्वासवत्त्वम्। उभयवित्कर्तव्याकर्तव्यवित्॥ 7-270-7 धर्मः कदाप्यधर्मो न भवेदित्याह नहीति। अधर्मतया दुःखहेतुतया॥ 7-270-8 अधर्मसन्ततौ धर्मं कुरुते परकारणात् इति क.पाठः॥ 7-270-9 एतौ विशुद्धताऽधर्मास्पर्शौ॥ 7-270-11 उच्यमानस्तु धर्मेण धर्मलोकभयच्छले इति झ.पाठः॥ 7-270-14 विशेषेणेति युग्मम्। सर्वेषां प्राणिनां पाञ्चभौतिकत्वे प्रत्यक्षेपि विशेषकरणमिदं पवित्रमिदमपवित्रमिति व्यवस्थापनं लोकधर्मे शास्त्रीयधर्मे च निमित्ते सति कृतम्॥ 7-270-15 अत्र शङ्कते अध्रुव इति। लोकस्य धर्मस्य च कार्यकारणबावात्कार्यस्याध्रुवत्वं कारणस्य ध्रुवत्वं च न युक्तं तन्तुनाशमन्तरेण पटनाशायोगादित्यर्थः। उत्तरमाह। कालः सङ्कल्पः। निष्कामधर्म एव ध्रुवस्तत्फलं नतु सकामि इत्यर्थः॥ 7-270-16 स्वयं गुरुरिति। धर्मबलात्स्वयमेव च स उदेति शिक्षयेदित्यर्तः॥ 7-270-17 यदि भूतानां प्राक्कर्मैव तत्रतत्र सुखदुःखसाधने प्रवर्तकमतो धर्मसेवने कर्मफलभोगे असमञ्जसेपि भूतानां दोषो नास्ति। यतः तिर्यग्योनावपि सतां विद्यमानानां भूतानां सदस्रत्प्रवृत्तौ पूर्वकर्मानुसाराल्लोक एव गुरुर्दृष्टः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|